(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.271. अध्यायः 271
Mahabharata - Vana Parva - Chapter Topics
द्रौपद्या जयद्रथंप्रति तत्तल्लक्षणप्रदर्शनपूर्वकं युधिष्ठिरादिनिर्देशः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-271-0x(2673)(26274)
ततो घोरतरः शब्दो वने समभवत्तदा।
भीमसेनार्जुनौ दृष्ट्वाक्षत्रियणाममर्षिणाम् ॥ 3-271-1(26275)
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा
स्वयंदुरात्मा कुरुपुङ्गवानाम्।
जयद्रथो याज्ञसेनीमुवाच
रथे स्थितां भानुमतीं हतौजाः ॥ 3-271-2(26276)
आयान्तीमे पञ्चरथा महान्तो
मन्ये च कृष्णे पतयस्तवैते।
सा जानती ख्यापय नः सुकेशि
परंपरं पाण्डवानां रथस्थम् ॥ 3-271-3(26277)
द्रौपद्युवाच्। 3-271-4x(2674)
किं ते ज्ञातैर्मूढ महाधनुर्धरै-
रनायुष्यं कर्म कुत्वाऽतिघोरम्।
एते वीराः पतयो मे समेता
न वः शेषः कश्चिदिहास्ति युद्धे ॥ 3-271-4(26278)
आख्यातव्यं त्वेव सर्वं मुमूर्षो-
र्मया तुभ्यं पृष्टया धर्म एषः।
न मे व्यथा विद्यते त्वद्भयं वा
संपश्यन्त्याः सानुजं धर्मराजम् ॥ 3-271-5(26279)
यस् ध्वजाग्रे नदतो मृदङ्गौ
नन्दोपनन्दौ मधुरौ सुयुक्तौ।
एनं स्वधर्मार्थविनिश्चयज्ञं
सदा जनाः कृत्यवन्तोऽनुयान्ति ॥ 3-271-6(26280)
य एष जाम्बूनदशुद्धगौरः।
प्रचण्डघोणस्तनुरायताक्षः।
एतं कुरुश्रेष्ठतमं वदन्ति
युधिष्ठिरं धर्मसुतं पतिं मे ॥ 3-271-7(26281)
अप्येष शत्रोः शरणागतस्य
दद्यात्प्राणान्धर्मचारी नृवीरः।
परैह्येनं मूढ जवेन भूतये
त्वमात्मनः प्राञ्जलिर्न्यस्शस्त्रः ॥ 3-271-8(26282)
अथाप्येनं पश्यसि यं रथस्यं
महाभुजं सालमिव प्रवृद्धम्।
संदष्टौष्ठं भ्रुकुटीसंहतभ्रुवं
वृकोदरो नाम पतिर्ममैषः ॥ 3-271-9(26283)
आजानेया बलिनः साधुदान्ता
महाबलाः शूरमुदावहन्ति।
एतस्य कर्माण्यतिमानुषाणि
भीमेति शब्दोऽस्य ततः पृथिव्याम् ॥ 3-271-10(26284)
नास्यापराद्धाः शेषमवाप्नुवन्ति
नायं वैरं विस्मरते कदाचित्।
वैरस्यान्तं संविधायोपयाति
पश्चाच्छान्तिं न च तत्तप्यतीव ॥ 3-271-11(26285)
धनुर्धराग्र्यो धृतिमान्यशस्वी
जितेन्द्रियो वृद्धसेवी नृवीरः।
भ्राता च शिष्यश्च युधिष्ठिरस्य
धनंजयो नाम पतिर्ममैषः ॥ 3-271-12(26286)
यो वै न कामान्न भयान्न लोभा-
त्त्यजेद्धर्मं न नृशंसं च कुर्यात्।
स एष वैश्वानरतुल्यतेजाः
कुन्तीसुतः शत्रुसहः प्रमाथी ॥ 3-271-13(26287)
यः सर्वधर्मार्तविनिश्चयज्ञो
भयार्तानां भयहर्ता मनीषी।
`बन्धुप्रियः शस्त्रभृतां वरिष्ठो
महाहवेष्वप्रतिवार्यवीर्यः' ॥ 3-271-14(26288)
यस्योत्तमं रूपमाहुः पृथिव्यां
यं पाण्डवाः परिरक्षन्ति सर्वे।
प्राणैर्गरीयांसमनुव्रतं वै
स एष वीरो नकुलः पतिर्मे ॥ 3-271-15(26289)
यः खङ्गयोधी लघुचित्रहस्तो
महांश्च धीमान्सहदेवोऽद्वितीयः।
यस्याद्यकर्म द्रक्ष्यसे मूढसत्व
शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये ॥ 3-271-16(26290)
शूरः कृतास्त्रो मतिमान्मनस्वी
प्रियंकरो धर्मसुतस्य राज्ञः।
हुताशचन्द्रार्कसमानतेजा
जघन्यजः पाण्डवानां प्रियश्च ॥ 3-271-17(26291)
बुद्ध्या समो यस् नरो न विद्यते
वक्ता तथा सत्सु विनिश्चयज्ञः।
सएष शूरो नित्यममर्षणश्च
धीमान्प्राज्ञः सहदेवः पतिर्मे ॥ 3-271-18(26292)
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं
न त्वेवैष व्याहरेद्धर्मबाह्यम्।
सदा मनस्वी क्षत्रधर्मे रतश्च
कुन्त्याः प्राणैरिष्टतमो नृवीरः ॥ 3-271-19(26293)
विशीर्यनतीं नावमिवार्णवान्ते
रत्नाभिपूर्णां मकरस्य पृष्ठे।
सेनां तवेमां हतसर्वयोधां
विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ॥ 3-271-20(26294)
इत्येते वै कथिताः पाण्डुपुत्रा
यांस्त्वं मोहादवमत्य प्रवृत्तः।
यद्येतेभ्यो मुच्यसे रिष्टदेहः
पुनर्जन्म प्राप्स्यसे जीवितं च ॥ 3-271-21(26295)
वैशम्पायन उवाच। 3-271-22x(2675)
3-271-22(26296)
ततः पार्थाः पञ्चपञ्चेन्द्रकल्पा-
स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन्।
यथाऽनीकं शरवर्षान्धकारं
चक्रुः क्रुद्धाः सर्वतस्ते निगृह्य ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-271-4 अनायुध्यमायुर्नाशकम् ॥ 3-271-8 परैहि शरणं गच्छ। एनं धर्मराजम् ॥ 3-271-10 आजानेया अश्वविशेषाः ॥ 3-271-11 अपराद्धाः अपराधवन्तः ॥ 3-271-16 मूढसत्व मूढबुद्धे। शतक्रतोर्वा शतक्रतोरिव ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.